Chapter 1 'Arjun's Dilemma'

Start from the beginning
                                    

माधवः पाण्डवश्चैव दिव्यौ शङ्खौ प्रदध्मतुः॥

॥१-१४॥

पाञ्चजन्यं हृषीकेशो देवदत्तं धनञ्जयः।

पौण्ड्रं दध्मौ महाशङ्खं भीमकर्मा वृकोदरः॥

॥१-१५॥

 अनन्तविजयं राजा कुन्तीपुत्रो युधिष्ठिरः।

नकुलः सहदेवश्च सुघोषमणिपुष्पकौ॥

॥१-१६॥

काश्यश्च परमेष्वासः शिखण्डी च महारथः।

धृष्टद्युम्नो विराटश्च सात्यकिश्चापराजितः॥

॥१-१७॥

द्रुपदो द्रौपदेयाश्च सर्वशः पृथिवीपते।

सौभद्रश्च महाबाहुः शङ्खान्दध्मुः पृथक्पृथक्॥

॥१-१८॥

Then Krishna and Arjun - behold!

Drawn by white steed on chariot gold,

Blowing celestial conches came,

All allies blew their conches same.

1. 14-18

स घोषो धार्तराष्ट्राणां हृदयानि व्यदारयत्।

नभश्च पृथिवीं चैव तुमुलो व्यनुनादयन्॥

॥१-१९॥

That terrible tumult so resounding,

Through heaven and earth traveling,

Dhritrashtra's sons' hearts filling,

Was rent with its sum - stuffing.

1. 19 

अथ व्यवस्थितान्दृष्ट्वा धार्तराष्ट्रान्कपिध्वजः।

प्रवृत्ते शस्त्रसंपाते धनुरुद्यम्य पाण्डवः॥

॥१-२०॥

हृषीकेशं तदा वाक्यमिदमाह महीपते।

अर्जुन उवाच

सेनयोरुभयोर्मध्ये रथं स्थापय मेऽच्युत॥

॥१-२१॥

यावदेतान्निरिक्षेऽहं योद्‌धुकामानवस्थितान्।

कैर्मया सह योद्धव्यमस्मिन् रणसमुद्यमे॥

॥१-२२॥

योत्स्यमानानवेक्षेऽहं य एतेऽत्र समागताः।

Bhagwat Gita - Its EssenceWhere stories live. Discover now